पंचतंत्र इति ग्रंथस्य परिचयं लिखत
नितिकथाग्रन्थेषु पंचतन्त्रस्य प्रथमं स्थानं वर्तते । अस्य ग्रन्थस्य रचनाकारः कश्चन् विष्णुशर्मा नामकः विद्वान् आसीत् । स्वस्य जीवनस्य वार्धक्ये (प्रायः जीवनस्य 80-85 वर्षस्य अवस्थायां) सः इमं ग्रन्थं रचितवान् ।
एवमपि जनश्रुतिः यत् कस्यचित् राज्ञः बालकान् पाठयितुं सः इमं ग्रन्थं रचितवान् ।
अस्मिन् ग्रन्थे पंच विभागाः सन्ति । क्रमशः -
मित्रभेदः
मित्रलाभः अथवा मित्रसम्प्राप्तिः
काकोलुकीयम्
लब्धप्रणाशः
अपरीक्षितकारकम् इति
अस्यैवानुकरणं कृत्वा अग्रे नारायणपण्डितः हितोपदेशनामकं कथाग्रन्थं‚ सोमदेवः कथासरित्सागरनामकं कथाग्रन्थं‚ अन्ये च बहवः विद्वांसः अन्यान् कथाग्रन्थान् रचितवन्तः । इति